.

SBSE BEST BLOG

LEARN SANSKRIT । YOG & MEDITATION । MOTIVATIONAL STORIES । STUDY MATERIAL । QUIZ AND MORE...

Translate

संस्कृत-कथा




नमो नमः
अहम्  ....(नाम)...........।

भवतां कृते एकां संस्कृतकथां श्रावयामि ।

एकः काकः अस्ति। 

काकः पिपासितः अस्ति ।

काकः अत्र पश्यति ।

जलं नास्ति ।

तत्र पश्यति ।

जलं नास्ति।

काकः सर्वत्र पश्यति ।

कुत्रापि जलं नास्ति ।

काकः वनं गच्छति ।

तत्र सः एकं घटं पश्यति ।

घटे किञ्चित् जलम् अस्ति ।

काकः चिन्तयति -

कथम् अहं जलं पिबामि ?

काकः एकं कार्यं करोति ।

काकः एकं शिलाखण्डं स्वीकरोति।

घटे स्थापयति । 

जलम् उपरि आगच्छति।

काकः पुनः पुनः शिलाखण्डं स्वीकरोति ।

घटे स्थापयति।

जलम् उपरि आगच्छति ।

काकः जलं पिबति।

काकः संतोषेण गच्छति ।

धन्यवादः।